धर्म/अध्यात्म

भगवान शिव का अभिषेक करते समय करें शिव सहस्त्रनाम का पाठ

अमावस्या तिथि देवों के देव महादेव को समर्पित होता है। इस शुभ अवसर पर भगवान शिव की भक्ति भाव से पूजा की जाती है। वहीं, पूजा के समय गंगाजल से भगवान शिव का अभिषेक किया जाता है। इस शुभ तिथि पर जातक गंगा तट पर पूजा, जप-तप और दान-पुण्य करते हैं।

ज्योतिषियों की मानें तो गुरुवार 20 नवंबर यानी मार्गशीर्ष अमावस्या के दिन कई मंगलकारी संयोग बन रहे हैं। इन योग में भगवान शिव की पूजा करने से साधक को अक्षय फल की प्राप्ति होगी। साथ ही सभी संकटों से मुक्ति मिलेगी।

अगर आप भी भगवान शिव की कृपा के भागी बनना चाहते हैं, तो मार्गशीर्ष अमावस्या के दिन स्नान-ध्यान के बाद गंगाजल से महादेव का अभिषेक करें। वहीं, अभिषेक के समय शिव सहस्त्रनाम का पाठ करें।

शिव सहस्त्रनाम स्तोत्र

शान्तं पद्मासनस्थं शशिधरमुकुटं पञ्चवक्त्रं त्रिनेत्रं

शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् ।

नागं पाशं च घण्टां प्रलयहुतवहं साङ्कुशं वामभागे

नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥

स्तोत्रम् ।

ओं स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः ।

सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥

जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः ।

हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥

प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ।

श्मशानवासी भगवान् खचरो गोचरोऽर्दनः ॥

अभिवाद्यो महाकर्मा तपस्वी भूतभावनः ।

उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥

महारूपो महाकायो वृषरूपो महायशाः ।

महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः ॥

लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः ।

पवित्रं च महांश्चैव नियमो नियमाश्रितः ॥

सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः ।

सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ॥

चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः ।

अत्रिरत्र्या नमस्कर्ता मृगबाणार्पणोऽनघः ॥

महातपा घोरतपा अदीनो दीनसाधकः ।

संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥

योगी योज्यो महाबीजो महारेता महाबलः ।

सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः ॥

दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ।

विश्वरूपः स्वयं श्रेष्ठो बलवीरो बलो गणः ॥

गणकर्ता गणपतिर्दिग्वासाः काम एव च ।

मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः ॥

कमण्डलुधरो धन्वी बाणहस्तः कपालवान् ।

अशनी शतघ्नी खड्गी पट्‍टिशी चायुधी महान् ॥

स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः ।

उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥

दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ।

सृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः ॥

अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि ।

ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभःस्थलः ॥

त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः ।

अहश्चरो नक्तञ्चरस्तिग्ममन्युः सुवर्चसः ॥

गजहा दैत्यहा कालो लोकधाता गुणाकरः ।

सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥

कालयोगी महानादः सर्वकामश्चतुष्पथः ।

निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥

बहुभूतो बहुधरः स्वर्भानुरमितो गतिः ।

नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः ॥

घोरो महातपाः पाशो नित्यो गिरिरुहो नभः ।

सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः ॥

अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः ।

दक्षयागापहारी च सुसहो मध्यमस्तथा ॥

तेजोपहारी बलहा मुदितोऽर्थोऽजितोऽवरः ।

गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥

न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः ।

सुतीक्ष्णदशनश्चैव महाकायो महाननः ॥

विष्वक्सेनो हरिर्यज्ञः सम्युगापीडवाहनः ।

तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥

विष्णुप्रसादितो यज्ञः समुद्रो बडबामुखः ।

हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥

उग्रतेजा महातेजा जन्यो विजयकालवित् ।

ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च ॥

शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली ।

वेणवी पणवी ताली खली कालकटङ्कटः ॥

नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः ।

प्रजापतिर्विश्वबाहुर्विभागः सर्वगोऽमुखः ॥

विमोचनः सुसरणो हिरण्यकवचोद्भवः ।

मेढ्रजो बलचारी च महीचारी स्रुतस्तथा ॥

सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः ।

व्यालरूपो गुहावासी गुहो माली तरङ्गवित् ॥

त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः ।

बन्धनस्त्वसुरेन्द्राणां युधिशत्रुविनाशनः ॥

साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः ।

प्रस्कन्दनो विभागज्ञो अतुल्यो यज्ञभागवित् ॥

सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः ।

हैमो हेमकरोऽयज्ञः सर्वधारी धरोत्तमः ॥

लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः ।

सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥

मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः ।

सर्वकालप्रसादश्च सुबलो बलरूपधृत् ॥

सर्वकामवरश्चैव सर्वदः सर्वतोमुखः ।

आकाशनिर्विरूपश्च निपाती ह्यवशः खगः ॥

रौद्ररूपोऽम्शुरादित्यो बहुरश्मिः सुवर्चसी ।

वसुवेगो महावेगो मनोवेगो निशाचरः ॥

सर्ववासी श्रियावासी उपदेशकरोऽकरः ।

मुनिरात्मनिरालोकः सम्भग्नश्च सहस्रदः ॥

पक्षी च पक्षरूपश्च अतिदीप्तो विशां पतिः ।

उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः ॥

वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः ।

सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः ॥

भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः ।

महासेनो विशाखश्च षष्टिभागो गवां पतिः ॥

वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च ।

वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः ॥

वाचस्पत्यो वाजसनो नित्यमाश्रमपूजितः ।

ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ॥

ईशान ईश्वरः कालो निशाचारी पिनाकभृत् ।

निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ॥

नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः ।

भगहारी निहन्ता च कालो ब्रह्मा पितामहः ॥

चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ।

लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः ॥

बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः ।

इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ॥

दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः ।

लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ॥

अक्षरं परमं ब्रह्म बलवच्छक्र एव च ।

नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ॥

बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित् ।

वेदकारो मन्त्रकारो विद्वान् समरमर्दनः ॥

महामेघनिवासी च महाघोरो वशीकरः ।

अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥

वृषणः शङ्करो नित्यवर्चस्वी धूमकेतनः ।

नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः ॥

स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः ।

उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः ॥

कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम् ।

महापादो महाहस्तो महाकायो महायशाः ॥

महामूर्धा महामात्रो महानेत्रो निशालयः ।

महान्तको महाकर्णो महोष्ठश्च महाहनुः ॥

महानासो महाकम्बुर्महाग्रीवः श्मशानभाक् ।

महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः ॥

लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः ।

महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥

महानखो महारोमा महाकेशो महाजटः ।

प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ॥

स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः ।

वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥

गण्डली मेरुधामा च देवाधिपतिरेव च ।

अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥

यजुः पादभुजो गुह्यः प्रकाशो जङ्गमस्तथा ।

अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥

उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः ।

नाभिर्नन्दिकरो भावः पुष्करस्थपतिः स्थिरः ॥

द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः ।

नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥

सगणो गणकारश्च भूतवाहनसारथिः ।

भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥

लोकपालस्तथाऽलोको महात्मा सर्वपूजितः ।

शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः ॥

आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः ।

विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः ॥

कपिलः कपिशः शुक्ल आयुश्चैव परोः ।

गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः ॥

परश्वधायुधो देवो ह्यनुकारी सुबान्धवः ।

तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः ॥

उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः ।

सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥

बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ।

स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः ॥

बहुधा निन्दितः शर्वः शङ्करः शङ्करोऽधनः ।

अमरेशो महादेवो विश्वदेवः सुरारिहा ॥

अहिर्बुध्न्योऽनिलाभश्च चेकितानो हविस्तथा ।

अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥

धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ।

धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥

प्रभावः सर्वगो वायुरर्यमा सविता रविः ।

उषङ्गुश्च विधाता च मान्धाता भूतभावनः ॥

विभुर्वर्णविभावी च सर्वकामगुणावहः ।

पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥

बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी ।

कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ॥

सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः ।

देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् ॥

कैलासगिरिवासी च हिमवद्गिरिसंश्रयः ।

कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥

वणिजो वर्धकी वृक्षो वकुलश्चन्दनश्छदः ।

सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥

सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः ।

सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥

प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः ।

सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ॥

भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥

वाहिता सर्वभूतानां निलयश्च विभुर्भवः ।

अमोघः सम्यतो ह्यश्वो भोजनः प्राणधारणः ॥

धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः ।

गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः ॥

हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् ।

प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः ॥

गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः ।

महागीतो महानृत्यो ह्यप्सरोगणसेवितः ॥

महाकेतुर्महाधातुर्नैकसानुचरश्चलः ।

आवेदनीय आदेशः सर्वगन्धसुखावहः ॥

तोरणस्तारणो वातः परिधी पतिखेचरः ।

सम्योगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः ॥

नित्य आत्मसहायश्च देवासुरपतिः पतिः ।

युक्तश्च युक्तबाहुश्च देवो दिविसुपर्वणः ॥

आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः ।

वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥

शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः ।

अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥

समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ।

निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ॥

रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् ।

मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥

आरोहणोऽधिरोहश्च शीलधारी महायशाः ।

सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥

युगरूपो महारूपो महानागहनो वधः ।

न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ॥

Related Articles

Back to top button